७२-इमं वियातं° कण्ठग्राहमितो यापय ।
७३–एतावती ज्ञानसम्पत्तिरार्याणामिति जानं जानं कस्य चेतः प्रहृद परवशं न भवति ।
७४-बिटुगंमन्या एबोरिसच्यन्ते न तु विद्वांसः ।
७५—किमनागतचिन्तनया । यदेव विधात्रा विधीयते तदेव शुभायेति,श्रद्धत्स्व ।
७६–न हि सर्वाः स्खलितयः सुसमाधा भवन्ति । व्यर्थश्च प्रमादजानां, साधूकरणे प्रयासः।
७७–न हि ज्ञानेन सदृशं दुःखापहं किञ्चिदस्ति ।
७८-इबोहं वाराणसीं गामुकोऽस्मि ।
_____
अथ तद्धितेषु विवेच्यानि ।
तत्रापत्याधिकारः प्रथमः ।
१–कौरव्याणां पाण्डवानां च दारुणं जन्यमजनि ।
२–तस्य भ्राता तु वैमात्रो’ लक्ष्मणो नाम वीर्यवान् । (श्रीरामायणे )
३-वैयासः शुको ब्रह्मविदां वरो बभूव ।
४–ज्यैष्ठेयो रामो माध्यमेयो भरतः कानिष्ठेयौ च लक्ष्मणशत्रुघ्नाविति रामायणे स्थितम् ।
५-युधिष्ठिरादयः पञ्च पाण्डवेया धर्मप्रधाना अधर्मभीरघश्चेति लौकिकाः प्रतिपन्नाःपरीक्षकास्तु विप्रतिपन्नाः ।
६-पाराशर्यो व्यास उच्यते न चासौ पराशरस्य गोत्रापत्यम् । तत् कथम् ?
७-कथमनन्तरोऽश्वत्थामा द्रौणायन इत्युच्यते ?
८-दाक्षिण्यं नाम बिम्बोष्ठि बैम्बकानां कुलव्रतम् ( मालविकायाम् )
९–विरला ह्यषय्या भणितयोऽस्य वचसस्तुलामारोहन्ति ।
• धृष्टम् । २ हप्यन्ति । १ युदम्। ४ विमातुरपत्यं पुमान् ।