कृत्याधिकारः पञ्चमः ।
१-ऊन तञ्जानामि लोकेस्मिन्नयेनाजय्यमेव यत् ।
२–अयं हिन्दीवाग्गुम्फः संस्कृतेनानूदितव्यः ।
३-परोपकारश्रियोऽप्यसाबनृतिक इति नापलप्यम् १ ।
४-जाने दुष्करमिदं कृत्यं तथापि मया तत्र प्रवर्यम् । एषा मे व्यवस्थिता । मनीषा ।
५-उपचर्यः स्त्रिया साध्व्या सततं देववशतेः ।
६–नेदमुश्मो व्यकरणाधीयामेव शश्वद्रतः स्याः । विषयान्तरण्यपि ते समाहृत्यानि ।
७-इदमभ्युपेयं भवति न खङ दैवानुग्रहादृते सिध्यन्ति कर्माणि यत्नाः रव्धान्यपि ।
८–प्रभूताः स्वा न दीयन्त इत्याभणन्ति। सत्यं दुःखमर्जिताः श्रियः सुदेया न भवन्ति ।
९-संमानाद्विषादिवोद्विजितव्यं द्विजेन ।
१०-अयं मे प्रियतमः शिष्य इति विषमे दृयुपायं साध्वनुशास्युः।
११–यो राजा लोभमोहेन किञ्चित्कुर्यादसम्प्रतम्। सर्वोपायैर्नियम्यः स यथा पापान्निवर्तते ।
१२-ब्रह्मचर्या ह्म,त्तमं व्रतं व्रतानाम् । अविप्लुतब्रह्मचर्या एव गृहस्थाश्रमे प्रवेष्टमदं नेतरे ।
१३-प्रन्थाक्षराथै न संशय्यम्। यथास्थितमर्थोऽभ्युपेय इति केचिच्श्रद्धाजडा अमीमांसकाः ।
१४-चिरन्तनाः सखाय इति न ते विषमे विस्मयः। कर्तव्यमेव । साचिव्यं यच्छक्यम्।
१५–सर्वा विद्या अभ्यस्या भवन्ति, व्याकरणं तु सविशेषम् ।
• अपलापं नार्हति । २ वश कन्तिौ । कान्तिरभिलाषः । ३ साहाय्यम् ।