पृष्ठम्:शब्दापशब्दविवेकः.djvu/१३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( ११ )

प्रमाणम् । धानाचूर्णं सक्तवः स्युरिति क्षीरोद्घृतं कोषान्तरं च। धानाशब्दोपि प्रायेण स्त्रियां बहुत्वे। तथा चामरः पठति-धाना भृष्टयवे स्त्रिय इति । वासोदशाऽऽविश्चापि स्त्रियां बहुत्वे प्रयुज्येते । आविरिति प्रसववेदनो च्यते । यथा च चरके (शारीर० ८।३६॥ ) प्रयोगः–-ततोऽनन्तरमावीनां प्रादुर्भाव इति ।

 क्वचित्कर्तृकर्मणोर्बहुत्वेप्येकवचनान्तमाख्यातपदं प्रयुञ्जते व्यवहार कोविदाः । तद्यथा—चरः शरीरावयवाः स्वभावो धातवः क्रिया । लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन्परीक्ष्यते ॥ (चरके सूत्र० २७।३३१)। उभयत्र दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते।।(मनौ ५।६१ इत्यस्यानन्तरं क्षेपकः) । आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ इति । तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धत इति श्रीरामायणे (४।२९।११)। अभ्याजेत्युक्ते क्रिया निदिष्टा कर्तृकर्मणी गुणश्चानिर्दिष्ट इति भाष्ये (१।२।२)। सम्यग्विपाक- वीर्याणि प्रभावश्चाप्युदाहृत इति चरके ( सूत्र० २६।६६॥)। तयैव देव- तया तयोः कुशलवाविति नामनी प्रभावश्चाख्यात इति चोत्तरे रामचरिते । अत्रोदाहरणेषु नपुंसकमनपुंसकेनेति शासनातिक्रमोपि न दोषाय । व्यव- हारेणाभ्यनुज्ञानात् ।

 गतं लिङ्गसंख्याभ्याम् । धात्वधिकरणकं किञ्चिद्ब्रूमः। धातूनां सकर्मकाकर्मकत्वं तावन्न सुकरं प्रतिपत्तुम् । अयथाप्रतिपन्ने च तस्मिन्दु ष्यति सर्वोपि वाक्यविन्यास इति तदिह किञ्चिद्विशदयामः । शल हुल पत्लृ गताविति धातुपाठः । पततिरयं गमेरर्थे प्रयुज्यते । अधोगमनाद्यर्था वगमनं तु प्रकरणात् । तथा च शिष्टप्रयोगाः--नेज्जिह्मायन्त्यो नरकं पतामेति खिलपाठः (ऋ० १०।१०६ सूक्तस्यानन्तरम् )। यथा महान्त मध्वानमाशया पुरुषः पतन्। स निराशो निवर्तेत कर्मैतन्नस्तथोपमम् ॥ इति भारते ( शा० १०।११ )। दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना ( रघौ १५।८४ )। पपात पूर्वां जहतो विजिह्मतां...प्रसक्तसंपातपृथक