९२–अत्र समवधानं दीयमानं प्रार्थये ।
९३-कोपपरीतोऽसौ संमतं वाऽस्मतं वा जनं प्रतिघातयिष्यत्य संशयम् ।
९४–को नाम पुमान् दावानलं संविश्य क्षेमेण नियति ?
९५-स्नानागारे स्नातुमभ्यविशं स्नानीयसंभारं च तत्र प्रागेव संगृहीत मपश्यम् ।
९६-आपृष्ट एव ब्रूयान्नापृष्टः।
९७-–अन्तपालपदं सम्प्रति सुवर्णष्ठीचि जातम् ।
९८-बीरोऽपि वीरमित्रो भयाकुलो भूत्वा द्वे पदे पश्चादुपावर्तत ।
९९-ब्राह्मणा अपि श्रुतिपरिशीलनमुदत्रपन् का कथेतरेषाम् ।
१००–ये परहितं नित्यमुपाचरन्ति ते स्वस्य प्रियं कुर्वन्ति ।
१०१-वत्सलां मातरमुपरतां श्रुत्वा स शीर्षावघातमरोदोत् ।
१०२-एतद्विषयविचारणा मासमवारुध्यत ।
१०३–ब्रह्मचर्यस्यैष महिमा यन्मृत्युरपि भीष्मवशगः प्रजातः ।
१०४–अयं हि मप्रतिवेशे’ प्रवसतीति तमहं साधु वेद ।
१०५–एवमुच्यमाने न काऽप्यसंगतिः परापतति ।
१०६-*दिधकेनाविद्धो मुहम्मदो घूर्णमानः शिरसा ५शामगात् ।
१०७–यच्चलचित्रादिषु देशकालतो व्यवहितविप्रकृष्टानां बक्तृणां वचांसि
सामूजिकैः श्रूयन्ते तेनाकामतोऽपि शब्दनित्यत्वमभ्युपपत्तव्यं भवति ।
१०८-निर्भकोऽयं युबा शत्रुहस्तात्पताकां समाहृत्य वक्षसा न्यगृहूत ।
१०९- नेदमस्मास्वाधीनम्। विद्यालयाध्यक्ष एवास्य सर्वस्य प्रभवति ।
११०–केचिदाहुर्भक्तिर्धानायोपकल्पते, तदपरे न सहन्ते ।
१११--कपोलयोरुद्गतान् प्रस्वेदकणन् संमार्टि ।
११२-विश्वं सिसृक्षता धात्रापि तपोऽन्वतप्यतेति श्रयते ।
• इष्टम् । २ पर्यस्यजन्निस्यर्थो विवक्षितः । ३ मथुइसमीपे । ४ लिप्तकेन, विषदिग्धेन शरेण । ५ भूमिम् ।