पृष्ठम्:शब्दापशब्दविवेकः.djvu/१२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( १० )

पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः । श्रान्ता वयम् । नाग्रतो नश्चरणौ प्रसरतः। ये बाहुभ्यां नदीं तरन्ति ते बाहुका इत्युच्यन्ते । परं नायं नियमः । इदं प्रायिकमिति वामनेनैव शब्दत उक्तम् । तेन ‘शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सदेति' भारते ( शा० ९८।१७ ॥ ) बहुवचनं संगच्छते । तत्र शूराणां बाहवस्तेष्विति विग्रहः। पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः (रा० २।४३।१७)। यत्तु आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुश्श्रोत्रमथो बलमित्युपनिषद्येकवचनं तदिन्द्रियाभिप्रायेण । इन्द्रियं नामैकं भवति, गोलके तु द्वे, अतश्चक्षुषी श्रोत्रे इति द्विवचनम्। यच्च कुमारे (३।६७॥ ) उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानीति बहुवचनं तद् बहुत्वापेक्षम्। त्रिलोचनस्य भगवतः शिवस्य तानीति ।

 केचिच्छब्दाः पुम्भूम्नि नियताः । अथ ब्रह्मचर्यं परिसमाप्य दारान्कुर्वीत । पत्नीपरिग्रहं कुर्यादित्यर्थः । अक्षतास्तिलकक्रियायां प्रशस्ताः। वरवध्यौ लाजैरवकिरन्ति कन्याः। परे स्त्रियां बहुत्वे प्रयुज्यन्ते। उक्तं चामरेण-आपः सुमनसो वर्षा अप्सरः सिकतासमाः। एते स्त्रियां बहुत्वे स्युरेकत्वेप्युत्तरत्रयम् ।। इति । उत्तरत्रयस्यैकत्व उदाहरणानि- उर्वशी नामाप्सराः पुरूरवसं चकमे । एका च सिकता तैलदानेऽसमर्था खार्यप्यसमर्था। समां समां विजायत (५/२।१२) इति भगवान् सूत्रकारः। सुमनःशब्दो मालतीवचनस्त्वेकत्वे प्रयुज्यतेऽनवग्रहम् । आह च सुमना मालती जातिः । कुसुमवचनत्वेपि बहुत्वं व्यभिचरन्दृष्टः। वेश्या श्मशानसुमना इव वर्जनीयेति मृच्छकटिकायाम् । अघ्रासातां सुमनसाविति च काशिकायाम् । जलौकेत्याकारान्तं त्रिषु वचनेषु यथापेक्षम् प्रयुज्यते । जलौक इति सकारान्तं तु बहुवचने नियतम् । पांसुशब्दः प्रायेण बहुवचनान्तः । पाँसवः कस्मात् । पादैः सूयन्ते । पन्नाः शेरत इति निरुक्ते (३।१२।१९) निर्वचनदर्शनात् । व्याख्येयगतो बहुत्वे प्रयुक्त इति तस्यायमनुवाद इति मा स्म भ्रमीः। समूढमस्य पांसुर इति हि तत्र मूलम् । सक्तुरपि तादृशः । अत्र करम्भो दधिसक्तव इत्यमरोक्तिः