१८
शाब्दनिर्णयः।
पदानीति कथ्यते१ । नैतत् सारम् । गौरित्यखण्डस्यापि पदस्य
शक्तिभेदे पृथक् सम्बन्धज्ञानमपेक्ष्यते, किमु शक्तिमद्भेदेऽपि । अथ तत्राभिधेयभेदात् तदपेक्षा, इह तु पदार्था२ एव
संसृष्टा ३ वाक्यार्थ ४ इति न पृथग् वाक्यस्य शक्तिग्रहणापेक्षा ।
न । प्रतिपाद्यभेदात्, संसर्गशब्दस्यैव पृथक् शक्तिज्ञानापेक्षेति न शक्तिग्रहणमुपपद्यते । न चागृहीतसम्बन्धं वाक्य
बोधयति, पदवच्छब्दत्वात् । तथा पदतच्छक्तिव्यतिरिक्तवाक्यतच्छक्तिकल्पनायां प्रतिप्रयोगं भेदात् कल्पनागौरवं च
स्यात् । तथाच शिशो ! गामानय, गां बधान । अर्भक !
गामानय, गां बधान । बाल ! गामानय, गां बधान, डिम्भ !
गामानय, गां बधान । इत्यष्टानां प्रयोगाणामष्टौ वाक्यानि तच्छक्तयश्च कल्पयितव्याः। पदवादिनस्तु ५ सप्तैव । तथा ६ शुक्लामिति पदान्तरप्रयोगे वाक्यभेदात् पुनरष्टौ वाक्यानि तच्छक्तयश्चकल्पयितव्याः । पदवादिनस्त्वेकैव शक्तिः । तस्माद्
वाक्यपक्षो मुधा ॥ २२ ॥
इदानीं पदार्थपक्षम् प्रतिजानीते-
पदार्थान् प्रतपाघ्यैव निवर्तन्ते पदान्यतः ।
पदार्था एव संसर्गं बधयन्त्यूर्ध्वमञ्जसा ॥ २३ ॥
पदेभ्यः प्रतिपन्नानां पदार्थानां स्वात्मसंसर्गप्रतिपादनमभिहितान्वयो नाम पूर्ववादिना प्रतिज्ञात: ७ ॥ २३ ॥
१. ‘थ्येत । ने’ ख. पाठः २. ‘र्थ’, ३. ‘ष्टो’ क. पाठः ४. ‘र्था ' ख . पाठः ५. ‘नः स' क. पाठः ६. ‘था च शु', ७. ‘तम्॥' ख.पाठः.