पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः ।

३७

प्रयोगे कार्यनिष्ठतेत्युपदेशेऽपि तन्निष्ठतावगमः, व्युत्पत्तुः शब्दसामर्थ्यविषयतया कार्यस्याप्रतीतेरुपदेशेऽप्रतीयमानकार्यकल्पनाद् वरं प्रयोगेऽपि संसृष्टमात्रस्य प्रतीयमानस्याभिधेयत्वकल्पनम् । ननूपदेशे बुद्धिसामर्थ्यं शब्दस्य प्रतिपत्तुं न शक्यते प्रयोग इव बुद्धिकार्यावगमे , मानाभावात् । कथं तर्हि उपदेशानन्तरं प्रयुक्ताच्छब्दादर्थम् प्रतिपद्यन्ते बालाः । क्वचित् प्रयोगे शब्दस्य बुद्धिसमर्थतावगमादिहापि तत्सामान्याद् बुद्धिसामर्थ्यप्रतिपत्तिरिति चेत्, तथाप्युपदेशेषु कार्यमन्तरेण बुद्धिसामर्थ्यसिद्धिः। तथाच रागशक्तीच्छाद्वेषादिविषयाः शब्दार्थसम्बन्धाः प्रायेण व्युत्पाद्यन्ते । तेषां प्रयोगसमवायिप्रवृत्तिविषयदर्शनायोगात् । तथाचदेवदत्तः काष्ठै:स्थाल्यामोदनं पचतीत्यादिष्वतीतानागतवर्तमानार्थनिष्ठेष्वपि वाक्येषु प्रसिद्धार्थपदसमभिव्याहारेणाप्रसिद्धार्थस्यापि2पदस्य सम्बन्धोऽवगम्यते । तथा निगमनिरुक्तनिघण्टुव्याकरणेभ्योऽपि स्फुटतरा शब्दार्थव्युत्पत्तिः । न चैतेषु कार्यार्थतावगमोऽप्रतीतः। कथं पुनरुपदेशादिषु संसृष्टस्वार्थे सामर्थ्यावगमः । वाक्यरूपत्वादुपदेशादीनां पदान्तराभिधेयपदार्थसंसृष्टास्वार्थस्य सर्वत्राव्यभिचारात् , तथागृहीतसम्बन्धादपि शब्दात् संसृष्टार्थावगमात् । तस्मान्न कार्यसंसृष्टे नियमेन सामर्थ्यसिद्धिः॥४७॥

किञ्च-

कार्यान्विते च शब्दार्थे प्रत्येकं सङ्गतिग्रहात् ।

शाब्दप्रमाणहानिः स्यान्नादृष्टे सङ्गतिग्रहः ॥ ४८॥


१. ‘था दे’ क. पाठः २. ‘र्थस्या' ग• पाठः.