पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः ।

३१

समर्पणसमर्थप्रमाणैकदेशविषयशब्दार्थापत्तिप्रापितपदोपसंहारेणान्विताभिधानसिद्धिः। अन्यथाध्याह्रियमाणार्थसंसर्गस्यार्थनिबन्धनत्वेनानागमिकत्वप्रसङ्गात्॥ ३९ ॥

तस्मादुपसंहरति-

अतः पदेभ्य: संसर्गस्तच्छक्तिभ्य: प्रमीयते ।

इति न्यायैर्यथाशक्ति व्युत्पत्तिं प्रत्यपीपदम् ॥ ४० ॥

उक्तमन्विताभिधानात् पदेभ्य एव वर्णात्मकेभ्यः संस-

र्गबुद्धिरिति ॥ ४० ॥

अपिच -

शाब्दत्वं नान्यथैव स्यात् पदवृन्दस्मृतेर्विना ।

महावाक्येन चेत् तेऽपि निर्विकल्पेतरा हि सा ॥४१॥

इतोऽपि वर्णात्मकानामेव पदानां वाक्यार्थप्रतिपादक-

त्वमङ्गीकर्तव्यम् । अन्यथा तस्य शाब्दत्वविरहादप्रामाण्यप्रसङ्गात् । ये तु मन्यन्ते –वर्णोपलम्भजनिताःसंस्कारा एव स्मारकाः तदतिरेकिणो वा पदार्थबुद्धिसामर्थ्यावच्छिन्नतया पदशब्दभागिनः समसर्गं प्रतिपादयन्तीति, तैरपि संसर्गस्य शाब्दत्वमभिप्रेतमात्मीयेन मतेन निराकृतं भवति । कथं हि शब्दोपलब्धपदार्थजनितसंसर्गबोधमशाब्दं ब्रुवता तदुपलम्भनितसंस्कारजनितसंसर्गबोधस्य शाब्दत्वमिष्यते , न हि चाक्षुषज्ञानसंस्कारजनितं ज्ञानं चाक्षुषं प्रमाणं वा भवति ।


१. ‘वेऽनाग', २. ‘प्रतिपत्तिः', ३. ‘ब्धि' क. पाठः. ४. ‘तबो’ ख. ग. पाठः.