पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४
सुवर्णमालास्तुतिः ।


ज्ञप्तिः सर्वशरीरेष्वखण्डि-
 ता या विभाति सा त्वं भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ।। २० ॥

चपलं मम हृदयकपिं विषय-
 द्रुचरं दृढं वधान विभो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ २१ ।।

छाया स्थाणोरपि तव तापं
 नमतां हरत्यहो शिव भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ २२ ॥

जय कैलासनिवास प्रमथग-
 णाधीश भूसुरार्चित भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ २३ ॥