पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२
सुवर्णमालास्तुतिः ।

ओमिति तव निर्देष्ट्री माया-
 स्माकं मृडोपकर्त्री भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम ॥ १२ ॥

औदास्यं स्फुटयति विषयेषु दि-
 गम्बरता च तवैव विभो ।।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ।। १३ ।।

अन्त:करणविशुद्धिं भक्तिं
 च त्वयि सतीं प्रदेहि विभो ।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ १४ ॥

अस्तोपाधिसमस्तव्यस्तै
 रूपैर्जगन्मयोऽसि विभो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ १५ ॥