पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८१
सुवर्णमालास्तुतिः ।

ऋक्षाधीशकिरीट महोक्षा-
 रूढ विधृतरुद्राक्ष विभो ।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ ८ ॥

ऌवर्णद्वन्द्वमवृन्तसुकुसुममि-
 वाङ्घ्रौ तवार्पयामि विभो।
साम्व सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ।। ९॥

एकं सदिति श्रुत्या त्वमेव
 सदसीत्युपास्महे मृड भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ १० ॥

ऐक्यं निजभक्तेभ्यो वितरसि
 विश्वंभरोऽत्र साक्षी भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ ११ ॥