पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

शिवापराध-

क्षमापणस्तोत्रम्॥




 
आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।
यद्यद्वै तत्र दु:खं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥

बाल्ये दुःखातिरेकान्मललुलितवपुः स्तन्यपाने पिपासु-
र्नो शक्तश्चेन्द्रियेभ्यो भव मलजनिता जन्तवो मां तुदन्ति ।
नानारोगातिदुःखाद्रुदितपरवशः शंकरं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥