पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
वेदसारशिवस्तोत्रम् ।


शिवाकान्त शंभो शशाङ्कार्धमौले
 महेशान शूलिञ्जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूप:
 प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥

परात्मानमेकं जगद्वीजमाद्यं
 निरीहं निराकारमोंकारवेद्यम् ।
यतो जायते पाल्यते येन विश्वं
 तमीशं भजे लीयते यत्र विश्वम्॥ ५॥

न भूमिर्न चापो न वह्निर्न वायु-
 र्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न चोष्णं न शीतं न देशो न वेषो
 न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ ६ ॥

अजं शाश्वतं कारणं कारणानां
 शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं
 प्रपद्ये परं पावन द्वैतहीनम् ॥ ७ ॥