पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

॥ वेदसारशिवस्तोत्रम् ॥




पशूनां पतिं पापनाशं परेशं
 गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
 महादेवमेकं स्मरामि स्मरारिम् ॥ १॥

महेशं सुरेशं सुरारातिनाशं
 विभुं विश्वनाथं विभूत्यङ्गभूषम् ।।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
 सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ।। २ ।।

गिरीशं गणेशं गले नीलवर्णं
 गवेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं
 भवानीकलत्रं भजे पश्चवक्त्रम् ॥ ३ ॥