पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।


सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते
 स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः ।
लोल लोलम्बकानां कुलमिव सुधियां सेवते ये सदा स्तां
 भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदाम्भोरुहे वः ।। २७ ॥

येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिं प्रसादा-.
 द्ये वा नम्रात्ममूर्तिद्युसदृषिपरिषन्मूर्ध्नि शेषायमाणाः ।
श्रीकण्ठस्यारुणोद्यच्चरणसरसिजप्रोत्थितास्ते भावाख्या-
 त्पारावाराच्चिरं वो दुरितहतिकृतस्तारयेयुः परागाः ।। २८ ॥

भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां
 साम्नामाम्नायतत्त्वं यदपि च परमं यद्गुणातीतमाद्यम् ।
यच्चांहोहन्निरीहं गहनमिति मुहुः प्राहुरुच्चैर्महान्तो
 माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ।। २९ ।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

शिवकेशादिपादान्तवर्णनस्तोत्रम् ॥

संपूर्णम्॥