पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

शिवपादादिकेशान्त ॥

वर्णनस्तोत्रम्





 कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-
  क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।
 तारैहेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी
  कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः ॥१॥


 यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं
 यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।
 मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं
 सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ २ ॥