पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
शिवानन्दलहरी।


 स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः
  स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः ।
 माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-
  द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥



इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

शिवानन्दलहरी संपूर्णा ॥