पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
शिवानन्दलहरी ।


 धैर्याङ्कुशेन निभृतं
  रभसादाकृष्य भक्तिशृङ्खलया ।
 पुरहर चरणालाने
  हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६ ॥


 प्रचरत्यभितः प्रगल्भवृत्त्या
  मदवानेष मन:करी गरीयान् ।
 परिगृह्य नयेन भक्तिरज्ज्वा
  परम स्थाणु पदं दृढं नयामुम् ॥ ९७ ॥


 सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां
  सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।
 उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
  कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण


 इदं ते युक्तं वा परमशिव कारुण्यजलधे
  गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।
 हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
  कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ ९९॥