पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
शिवानन्दलहरी ।


 यदा कृताम्भोनिधिसेतुबन्धनः
  करस्थलाधःकृतपर्वताधिपः ।
 भवानि ते लङ्घितपद्मसंभव-
  स्तदा शिवार्चास्तवभावनक्षमः ॥ ८८ ॥


 नतिभिर्नुतिभिस्त्वमीश पूजा-
  विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।
 धनुषा मुसलेन चाश्मभिर्वा
  वद ते प्रीतिकरं तथा करोमि ।। ८९ ।।


 वचसा चरितं वदामि शंभो-
  रहमुद्योगविधासु तेऽप्रसक्तः ।
 मनसाकृतिमीश्वरस्य सेवे
  शिरसा चैव सदाशिवंनमामि ॥ ९०॥


 आद्याविद्या हृद्गता निर्गतासी-
  द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
 सेवे नित्यं श्रीकरं त्वत्पदाब्जं
  भावे मुक्तेर्भाजनं राजमौले ।। ९१ ॥