पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
शिवानन्दलहरी ।



 शिव तव परिचर्यासंनिधानाय गौर्या
  भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।
 सकलभुवनबन्धो सच्चिदानन्दसिन्धो
  सदय हृदयगेहे सर्वदा संवस त्वम् ।। ८४ ॥


 जलधिमथनदक्षो नैव पातालभेदी
  न च वनमृगयायां नैव लुब्धः प्रवीणः ।
 अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
  कथय कथमहं ते कल्पयानीन्दुमौले ।। ८५ ।।


 पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
  पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।
 जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो
  न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥८६।।


 अशनं गरलं फणी कलापो
  वसनं चर्म च वाहनं महोक्षः ।
 मम दास्यसि किं किमस्ति शंभो
  तव पादाम्बुजभक्तिमेव देहि ।। ८७ ।।