पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
शिवभुजंगम् ।

शिवेशानतत्पूरुषाघोरवामा-
 दिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।
अनौपम्य पट्त्रिंशतं तत्त्वविधा-
 मतीतं परं त्वां कथं वेत्ति को वा ॥ ४ ॥

प्रवालप्रवाहप्रभाशोणमर्धं
 मरुत्वन्मणिश्रीमहःश्याममर्धम् ।
गुणस्यूतमेतद्वपुः शैवमन्तः
 स्मरामि स्मरापत्तिसंपत्तिहेतोः ॥ ५ ॥

स्वसेवासमायातदेवासुरेन्द्रा-
 नमन्मौलिमन्दारमालाभिषक्तम् ।
नमस्यामि शंभो पदाम्भोरुहं ते
 भवाम्भोधिपोतं भवानीविभाव्यम् ॥ ६ ॥

जगन्नाथ मन्नाथ गौरीसनाथ
 प्रपन्नानुकम्पिन्विपन्नातिहारिन् ।
महःस्तोममूर्ते समस्तैकबन्धो
 नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥