पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६१
भवानीभुजंगम् ।


इतीमां महच्छीभवानीभुजगं
 स्तुतिं य: पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
 श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६ ॥

भवानी भवानी भवानी त्रिवार-
 मुदारं मुदा सर्वदा ये जपन्ति ।
न शोकं न मोहं न पापं न भीति:
 कदाचित्कथंचित्कुतश्चिज्जनानाम् ।। १७ ।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
भवानीभुजंगं संपूर्णम् ॥