पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५९
भवनीभुजंगम् ।


सुनासापुटं सुन्दरभ्रूललाटं
 तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटं लसद्गन्धकस्तूरिभूषं
 स्फुरच्छ्रीमुखाम्भोजमीडेऽहमम्ब ।। ८ ।।

चलत्कुन्तलान्तर्भ्रमभृङ्गबृन्दं
 बनस्निग्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-
 विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥

इति श्रीभवानि स्वरूपं तवेदं
 प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वम्ब डिम्भस्य मे हृत्सरोजे
 सदा वाङ्मयं सर्वतेजोमयं च ॥ १० ॥

गणेशाभिमुख्याखिलैः शक्तिबृन्दै-
 र्वृतऻ वै स्फुरच्चक्रराजोल्लसन्तीम् ।
परां राजराजेश्वरि त्रैपुरि त्वां
 शिवाकोपरिस्थां शिवां भावयामि ॥ ११ ॥