पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४७
नवरत्नमालिका।


भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां
 वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् ।
वारिसारवहकुण्डलां गगनशेखरी च परमात्मिकां
 चारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम् ॥४॥

कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस-
 त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम् ।
मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं
 मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ।। ५ ॥

वारणाननमयूरवाहमुखदाहवारणपयोधरां
 चारणादिसुरसुन्दरीचिकुरशेखरीकृतपदाम्बुजाम् ।
कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां
 वारणान्तमुखपारणां मनसि भावयामि परदेवताम् ।। ६॥

पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां
 पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् ।
पद्मसंभवसदाशिवान्तमयपञ्चरत्नपदपीठिकां
 पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ।। ७ ॥