पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

॥ नवरत्नमालिका॥


हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं
 कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् ।
कालकालफाणिपाशबाणधनुरङ्कुशामरुणमेखलां
 फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥१॥

गन्धसारधनसारचारुनवनागवल्लिरसवासिनीं
 सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् ।
मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरी
 इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥२॥

स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां
 हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् ।
वीरगर्वहरनूपुरां विविधकारणेशवरपीठिका
 मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥३॥