पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४५
कल्याणवृष्टिस्तवः ।


ह्रींकारत्रयसंपुटेन महता मन्त्रेण संदीपितं
 स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य श्रोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी
 वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥१६॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृता
कल्याणवृष्टिस्तवः संपूर्णः ।।