पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः॥

॥ कल्याणदृष्टिस्तवः ॥


कल्याणवृष्टिभिरिवामृतपूरिताभि-
 र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले
 नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १ ॥

एतावदेव जननि स्पृहणीयमास्ते
 त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सांनिध्यमुद्यदरुणायुतसोदरस्य
 त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २ ॥

ईशत्वनामकलुषाः कति वा न सन्ति
 ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
एक: स एव जननि स्थिरसिद्धिरास्ते
 यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥