पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
त्रिपुरसुन्दर्यष्टकम् ।


कदम्बवनमध्यगां कनकमण्डलोपस्थितां
 षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचन्द्रचूडामणि
 त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥

कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां
 कुशेशयनिवासिनीं कुटिलचित्तविद्वषिणीम् ।
मदारुणविलोचना मनसिजारिसंमोहिनीं
 मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥

स्मरेत्प्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां
 गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम् ।
धनस्तनभरोन्नतां गलितचूलिकां श्यामलां
 त्रिलोचनकुटुम्बिनीं बिपुरसुन्दरीमाश्रये ॥ ६ ॥

सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिका
 समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
 जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७॥