पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

।। श्रीः॥

॥ त्रिपुरसुन्दर्यष्टकम् ॥


कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं
 नितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां
 त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १ ॥

कदम्बवनवासिनीं कनकवल्लकीधारिणीं
 महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीं विशदरोचनाचारिणीं
 त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ ॥

कदम्बवनशालया कुचभरोल्लसन्मालया
 कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीत्तवाचालया
 कयापि घननीलया कवचिता वयं लीलया ॥३॥