पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


पूजामिमां यः पठति प्रभाते
 मध्याह्नकाले यदि वा प्रदोषे ।
धर्मार्थकामान्पुरुषोऽभ्युपैति
 देहावसाने शिवभावमेति ॥ ७० ॥

पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः ।
पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ।। ७१ ।।

प्रत्यहं भक्तिसंयुक्तो य: पूजनमिदं पठेत् ।
वाग्वादिन्याः प्रसादेन बत्सरात्स कविर्भवेत् ॥ ७२ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
देवीचतुःषष्ट्युपचारपूजास्तोत्रं संपूर्णम् ॥