पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
सुब्रह्मण्यभुजंगम् ।

जयानन्दभूमञ्जयापारधाम-
 ञ्जयामोघकीर्ते जयानन्दमूर्ते।
जयानन्दसिन्धो जयाशेषबन्धो
 जय त्वं सदा मुक्तिदानेशसूनो ॥ ३२ ॥

भुजङ्गाख्यवृत्तेन क्लृप्तं स्तवं यः
 पठेद्भक्तियुक्तो गुहं संप्रणम्य ।
स पुत्रान्कलत्रं धनं दीर्घमायु-
 र्लभेत्स्कन्दसायुज्यमन्ते नरः सः ॥ ३३ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यत्य

श्रीमच्छंकरभगवतः कृतौ

श्रीसुब्रह्मण्यभुजंगं संपूर्णम् ॥