पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले
 मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् ।
मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः
 कट्या काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥२०॥

मात: फालतले तवातिविमले काश्मीरकस्तूरिका-
 कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
 पादौ चन्दनलेपनादिभिरहं संपूजयामि मात् ।। २१ ।।

रत्नाक्षतैस्त्वां परिपूजयामि
 मुक्ताफलैर्वा रुचिरैरविद्धैः ।
अखण्डितैर्देवि यवादिभिर्वा
 काश्मीरपङ्काङ्किततण्डुलैर्वा !। २२ ।।

जननि चम्पकतैलमिदं पुरो
 मृगमदोपयुतं पटवासकम् ।
सुरभिगन्धमिदं च चतुःसमं
 सपदि सर्वमिदं परिगृह्यताम् ।। २३ ॥