पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


नवरत्नमये मयार्पिते
 कमनीये तपनीयपादुके।
सविलासमिदं पदद्वयं
 कृपया देवि तयोर्निधीयताम् ॥ १६ ॥

बहुभिरगरुधूपैः सादरं धूपयित्वा
 भगवति तव केशान्कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा
 झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥

सौवीराञ्जनमिदमम्ब चक्षुषोस्ते
 विन्यस्तं कनकशलाकया मया यत् ।
तन्न्यून मलिनमपि त्वदक्षिसङ्गात्
 ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥

मञ्जीरे पदयोर्निधाय रुचिरा विन्यस्य काञ्ची कटौ
 मुक्ताहारमुरोजयोरनुपमा नक्षत्रमालां गले ।
केयूराणि भुजेषु रत्नवलयश्रेणी करेषु क्रमा- .
 त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ।।१९।।