पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१९
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


तपनीयमयी सुतूलिका
 कमनीया मृदुलोत्तरच्छदा ।
नवरत्नविभूषिता मया
 शिबिकेयं जगदम्ब तेऽर्पिता ।। ४ ॥

कनकमयवितर्दिस्थापिते तूलिकाढ्ये
 विविधकुसुमकीर्णे कोटिबालार्कवणे ।
भगवति रमणीये रत्नसिंहासनेऽस्मि-
 न्नुपविश पदयुग्मं हेमपीठे निधाय ॥ ५॥

मणिमौक्तिकनिर्मितं महान्तं
 कनकस्तम्भचतुष्टयेन युक्तम् ।
कमनीयतमं भवानि तुभ्यं
 नवमुल्लोचमहं समर्पयामि ॥ ६॥

दूर्वया सरसिजान्वितविष्णु-
 क्रान्तया च सहितं कुसुमाढ्यम् ।
पद्मयुग्मसदृशे पदयुग्मे
 पाद्यमेतदुररीकुरु मातः ॥ ७ ॥