पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः॥

॥ देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ॥


उषसि मागधमङ्गलगायनै-
 र्झटिति जागृहि जागृहि जागृहि ।
अतिकृपाकटाक्षनिरीक्षणै-
 र्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥

कनकमयवितर्दिशोभमानं
 दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।
मणिमयमण्टपमध्यमेहि मात-
 र्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ २॥

कनककलशशोभमानशीर्षं
 जलधरलम्बि समुल्लसत्पताकम् ।
भगवति तव संनिवासहेतो-
 मणिमयमन्दिरमेतदर्पयामि ॥ ३ ॥