पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं
 प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु ।
चित्तं त्वत्पदभावने व्यभिचरेदृग्वाक्च मे जातु चे-
 त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ।।

काहं मन्दमतिः क्व चेदमखिलैरकान्तभक्तैः स्तुतं
 ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् ।
कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं
 स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥

 नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया ।
 निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥ १२७ ॥

   इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
   श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
   श्रीमच्छंकरभगवतः कृतौ
   त्रिपुरसुन्दरीमानसपूजास्तोत्रं
    संपूर्णम् ॥