पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं
 शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः ।
प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथ-
 क्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ॥ १०५ ॥

शिम्बीसूरणशाकबिम्बबृहतीकूश्माण्डकोशातकी-
 वृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना।
संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता- .
 न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रव्रजे ॥१०६।।

निम्बूकार्द्रकचूतकन्दकदलीकौशातकीकर्कटी-
 धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे ।
राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये
 संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ॥

सितयाञ्चित्तलड्डुकब्रजा-
 न्मृदुपूपान्मृदुलाश्च पूरिकाः । .
परमानमिदं च पार्वति
 प्रणयेन प्रतिपादयामि ते ॥ १०८ ॥