पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०४
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

तव दहनसदृक्षैरीक्षणैरेव चक्षु-
 र्निखिलपशुजनानां भीषयद्भीषणास्यम् ।
कृतवसति परेशप्रेयसि द्वारि नित्यं
 शरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि ॥ ७२ ।।

कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभां
 रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम् ।
कर्पूरागरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलीं
 श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकाम् ।।

स्वस्थानस्थितदेवतागणवृते बिन्दौ मुदा स्थापितं
 नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम् ।
चञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्टितं
 नित्यानन्दनिदानमम्ब सततं वन्दे च सिंहासनम् ।।

बदद्भिरभितो मुदा जय जयेति बृन्दारकैः
 कृताञ्जलिपरम्परा विदधती कृतार्थाा दशा ।
अमन्दमणिमण्डलीखचितहेमसिंहासनं
 सखीजनसमावृतं समधित्तिष्ठ दाक्षायणि ।। ७५ ॥