पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९९
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

विततनिजमयूखैर्निर्मितामिन्द्रनीलै-
 विजितकमलनालालीनमत्तालिमालाम् ।
मणिगणखचिताभ्यां कङ्कणाभ्यामुपेतां
 कलय वलयराजी हस्तमूले महेशि ।। ५२ ॥

नीलपट्टमृदुगुच्छशोभिता-
 बद्धनैकमणिजालमञ्जुलाम् ।
अर्पयामि वलयात्पुर:सरे
 विस्फुरत्कनकतैतृपालिकाम् ।। ५३ ॥

आलवालमिव पुष्पधन्वना
 बालविद्रुमलतासु निर्मितम् ।
अङ्गुलीषु विनिधीयतां शनै-
 रङ्गुलीयकमिदं मदर्पितम् ॥ ५४॥

विजितहरमनोभूमत्तमातङ्गकुम्भ-
 स्थलविलुलितकूजत्किङ्किणीजालतुल्याम् ।
अविरतकलनादैरीशचेतो हरन्तीं
 विविधमणिनिबद्धां मेखलामर्पयामि ॥ ५५ ॥