पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८८
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


क्वापि प्रोद्भटपद्मरागकिरणव्रातेन संध्यायितं
 कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् ।
मध्यालम्बिविशालमौक्तिकरूचा ज्योत्स्नायितं कुत्रचि-
 न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥

उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-
 न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया ।
नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-
 र्वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते ॥ ९ ॥

मणिसदनसमुद्यत्कान्तिधारानुरक्ते
 वियति चरमसंध्याशङ्किनो भानुरथ्याः ।
शिथिलितगतकुप्यत्सूतहुंकारनादैः
 कथमपि मणिगेहादुच्चकैरुच्चलन्ति ॥ १० ॥

भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना
 किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् ।
आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते
 शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥