पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८७
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


जातीचम्पकपाटलादिसुमनःसौरभ्यसंभावितं
 ह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् ।
आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं
 चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥४॥

परिपतितपरागैः पाटलक्षोणिभागो
 विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः ।
अलिशुकपिकराजीकूजितैः श्रोत्रहारी
 स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५ ॥

रम्यद्वारपुरप्रचारतमसा संहारकारिप्रभ
 स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते ।
क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद
 प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ।।६॥

उद्यत्कान्तिकलापकल्पितनभःस्फूर्जद्वितानप्रभः
 सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः ।
सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं
 सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ।। ७॥