पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ॥


मम न भजनशक्तिः पादयोस्ते न भक्ति-
 र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः ।
इति मनसि सदाहं चिन्तयन्नाद्यशक्ते
 रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥ १॥

व्याप्तं हाटकविग्रहर्जलचरैरारूढदेवव्रजै:
 पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् ।
आरक्तामृतसिन्धुमुद्धुरचलद्वीचीचयव्याकुल-
 व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव ॥२॥

तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं
 कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः ।
उच्चैःशृङ्गनिषण्णदिव्यवनितावृन्दाननप्रोल्लस-
 द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥ ३ ॥