पुटमेतत् सुपुष्टितम्
१७६
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
त्वद्भक्तानामम्ब शान्तैषणानां
ब्रह्मिष्ठानां दृष्टिपातेन पूतः ।
पापीयानप्यावृतः स्वर्वधूभिः
शोकातिगो मोदते स्वर्गलोके ॥ ६२ ॥
सन्तु विद्या जगत्यस्मिन्संसारभ्रमहेतवः ।
भजेऽहं त्वां यया विद्वान्विद्ययामृतमश्नुते ॥ ६३ ॥
विद्वन्मुख्यैर्विद्रुमाभं विशाल-
श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।
चन्द्रोत्तंसं चिन्मयं वस्तु किंचि-
द्विद्धि त्वमेतन्निहितं गुहायाम् ।। ६४ ।।
न विस्मरामि चिन्मूर्तिमिक्षुकोदण्डशालिनीम् ।
मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ।। ६५ ।।
चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां
हंसज्योत्स्नापूरह्रष्यच्चकोराम् ।
यामाश्लिष्यन्मोदते देवदेवः
सा नो देवी सुहवा शर्म यच्छतु ॥६६॥