पुटमेतत् सुपुष्टितम्
१७५
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
शरणं करवाण्यम्ब चरणं तव सुन्दरि ।
शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥ ५६ ।।
रत्नच्छत्रैश्चामरैर्दर्पणाद्यै-
श्चक्रेशानीं सर्वदोपाचरन्त्यः ।
योगिन्योऽन्या: शक्तयश्चाणिमाद्या
यूयं पातः स्वस्तिभिः सदा नः ॥ ५७ ॥
दरिद्रं मा विजानीहि सर्वज्ञासि यत: शिवे ।
दूरीकृत्याशु दुरितमथा नो वर्धया रयिम् ।। ५८ ।।
महेश्वरि महामन्त्रकूटत्रयकलेबरे ।
कादिविद्याक्षरश्रेणिमुशन्तस्त्वा हवामहे ॥ ५९॥
मूलाधारादूर्ध्वमन्तश्चरन्तीं
भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।
पश्यन्तस्त्वां ये च तृप्तिं लभन्ते
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६० ॥
मह्यं दुह्यन्ति ये मातस्त्वद्धयानासक्तचेतसे ।
तानम्ब सायकैरेभिरव ब्रह्मद्विषो जहि ।। ६१॥