पुटमेतत् सुपुष्टितम्
१७४
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
जगत्पवित्रि मामिकामपाहराशु दुर्जराम् ।
प्रसीद मे दयाधुने प्रशस्तिमम्ब न: स्कृधि ।। ५० ।।
कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।
मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ।। ५१ ॥
भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।
अङ्कुशस्तव तं हन्याद्यश्च नो द्वेषते जन: ।। ५२ ॥
रे रे चित्त त्वं वृधां शोकसिन्धौ
मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै।
देव्याः पादौ पूजयैकाक्षरेण
तत्ते पदं संग्रहेण ब्रवीम्योम ॥ ५३ ।।
चञ्चद्वालातपज्योत्स्नाकलामण्डलशालिने ।
ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ।। ५४ ।।
तामेवाद्यां ब्रह्मविद्यामुपासे
मूतैर्वेदैः स्तूयमानां भवानीम् ।
हन्त स्वात्मत्वेन यां मुक्तिकामो
मत्वा धीरो हर्षशोकौ जहाति ॥ ५५ ॥