पुटमेतत् सुपुष्टितम्
१८२
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं
पौण्ड्रं चापं पुष्पबाणान्दधानाम ।
बन्धूकाभां भावयामि त्रिनेत्रां
तामग्निवर्णां तपसा ज्वलन्तीम ।। ३९ ।।
भवानि तव पादाब्जनिर्णेजनपवित्रता: ।
भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥ ४० ॥
चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।
कारणेशैस्त्रिभिः साकं तद्विश्वमुपजीवति ।। ४१ ॥
नो वा यागैर्नैव पूर्तादिकृत्यै-
र्नो वा जप्यैर्नो महद्भिस्तपोभिः ।
नो वा योगैः क्लेशकृद्भिः सुमेधा
निचाय्येमां शान्तिमत्यन्तमेति ।। ४२ ॥
प्रात: पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।
सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ।। ४३ ॥
बन्धूकाभैर्भानुभिर्भासयन्ती
विश्वं शश्वत्तुङ्गपीनस्तनार्धा ।