पुटमेतत् सुपुष्टितम्
१६६
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
मन्दा निन्दालोलुपाहं स्वभावा-
देतत्स्तोत्रं पूर्यते किं मयेति ।
मा ते भीतिर्हे मते त्वादृशाना-
मेषा नेत्री राधसा सूनृतानाम् ॥ ६॥
तरङ्गभ्रुकुटीकोटिभङ्गया तर्जयते जराम ।
सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥ ७ ॥
तस्य मध्ये मणिद्वीप: कल्पकारामभूषितः ।
अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥ ८ ॥
कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।
द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥ ९॥
तत्र वप्रावली लीला गगनोल्लङ्घिगोपुरम् ।
मातः कौतूहलं दद्यात्सहार्यं नगरं तव ।। १० ॥
मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् ।
महापद्माटवीं वन्दे यशसा संपरीवृताम् ।। ११ ।।
तत्रैव चिन्तामणिधोरणार्चिभि-
र्विनिर्मितं रोपितरत्नशृङ्गम् ।