पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६४
आनन्दलहरी ।

वसन्ते सानन्दे कुसुमितलताभिः परिवृते
 स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे।
सखीभिः खेलन्तीं मलयपवनान्दोलितजले
 स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

आनन्दलहरी संपूर्णा ॥