पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६२
आनन्दलहरी ।

अय: स्पर्शे लग्नं सपदि लभते हेमपदवीं
 यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम् ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
 त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ।। १२ ॥

त्वदन्यस्मादिच्छाविषयफललाभे न नियम-
 स्त्वमज्ञानामिच्छाधिकमपि समर्था वितरणे ।
इति प्राहुः प्राञ्च: कमलभवनाद्यास्त्वयि मन-
 स्त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत् ॥ १३ ।।

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-
 त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
 तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४ ॥

निवास: कैलासे विधिशतमखाद्याः स्तुतिकरा:
 कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।
महेश: प्राणेशस्तदवनिधराधीशतनये
 न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ।। १५ ॥