पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५४
देवीभुजंगस्तोत्रम् ।


गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या
 तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
 विधत्से कृतिं वा स्थितिं वा महेशि ॥ १२ ॥

लसत्तारहारामतिस्वच्छचेलां
 वहन्तीं करे पुस्तकं चाक्षमालाम् ।
शरचन्द्रकोटिप्रभाभासुरां त्वां
 सकृद्भावयन्भारतीवल्लभ: स्यात् ॥ १३ ॥

समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
 स्वभासैव सिन्दूरिताजाण्डकोटिम् ।
धनुर्बाणपाशाङ्कुशान्धारयन्तीं
 स्मरन्तः स्मरं वापि संमोहयेयुः ॥ १४ ॥

मणिस्यूतताटङ्कशोणास्यबिम्बां
 हरित्पट्टवस्त्रां त्वगुल्लासिभूषाम् ।
हृदा भावयंस्तप्तहेमप्रभां त्वां
 श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ १५ ॥